|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.51. अध्यायः 051
Mahabharata - Vana Parva - Chapter Topics
नारदेनन्द्रादीन्प्रति दमयन्तीगुणानुवर्णनपूर्वकं तस्स्वयंवरप्रवृत्तिकथनम् ॥ 1 ॥ तत्स्वयंवरार्थमागच्छद्भिरिन्द्रादिभिः पथि दृष्टस्य नलस्य दमयन्तीघटनायां दूत्येन वरणम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
बृहदश्व उवाच। 3-51-0x(1916)(17836)
दमयन्ती तु तच्छ्रुत्वा वचो हंसस्य भारत।
तदा प्रभृति न स्वस्था नलं प्रति बभूव सा ॥ 3-51-1(17837)
ततश्चिन्तापरा दीना विवर्णवदना कृशा।
बभूवदमयन्ती तु निःश्वासपरमा तदा ॥ 3-51-2(17838)
ऊर्ध्वदृष्टिर्ध्यानपरा बभूवोन्मत्तदर्शना।
पाण्डुवर्णा क्षणेनाथ हृच्छयाविष्टचेतना ॥ 3-51-3(17839)
न शय्यासनभोगेषु रतिं विन्दति कर्हिचित्।
न नक्तं न दिवा शेते हाहेति रुदती मुहुः ॥ 3-51-4(17840)
तामस्वस्थां तदाकारां सख्यस्ता जज्ञिरिङ्गितैः ॥ 3-51-5(17841)
ततो विदर्भपतये दमयन्त्याः सखीजनः।
न्यवेदयत्तामस्वस्थां दमयन्तीं नरेश्वरः ॥ 3-51-6(17842)
तच्छ्रुत्वा नृपतिर्भीमो दमयन्तीसखीगणात्।
किमर्थं दुहिता मेऽद्यनातिस्वस्थेव लक्ष्यते ॥ 3-51-7(17843)
स समीक्ष्य महीपालः स्वां सुतां प्राप्तयौवनाम्।
अपश्यदात्मना कार्यं दमयन्त्याः स्वयंवरम् ॥ 3-51-8(17844)
स सन्निपातयामास महीपालान्विशांपतिः।
एषोऽनुभूयतां चीराः स्वयंवर इति प्रभो ॥ 3-51-9(17845)
श्रुत्वा तु पार्थिवाः सर्वे दमयन्त्याः स्वयंवरम्।
अभिजग्मुस्ततो वीरा राजानो भीमशासनात् ॥ 3-51-10(17846)
हस्त्यश्वरथघोषेण नादयन्तो वसुंधराम्।
विचित्रमाल्याभरणैर्बलैर्दृश्यैः स्वलंकृतैः ॥ 3-51-11(17847)
तेषां भीमो महाबाहुः पार्थिवानां महात्मनाम्।
यथार्हमकरोत्पूजां तेऽवसंस्तत्र पूजिताः ॥ 3-51-12(17848)
एतस्मिन्नेव काले तु सुराणामृषिसत्तमौ।
अटमानौ महात्मानाविन्द्रलोकमितो गतौ ॥ 3-51-13(17849)
नारदः पर्वतश्चैव महाप्राज्ञौ महाव्रतौ।
देवराजस् भवनं विविशाते सुपूजितौ ॥ 3-51-14(17850)
तावर्चयित्वा मघवा ततः कुशलमव्ययम्।
पप्रच्छानामयं चापि तयोः सर्वगतं विभुः ॥ 3-51-15(17851)
नारद उवाच। 3-51-16x(1917)
आवयोः कशलं देव सर्वत्रगतमीश्वर।
लोके च मघवन्कृत्स्ने नृपाः कुशलिनो विभो ॥ 3-51-16(17852)
बृहदश्व उवाच। 3-51-17x(1918)
नारदस्य वचः श्रुत्वा पप्रच्छ बलवृत्रहा।
धर्मज्ञाः पृथिवीपालास्त्यक्तजीवितयोधिनः ॥ 3-51-17(17853)
शस्त्रेण निधनं काले ये गच्छन्त्यपराड्युखाः।
अयं लोकोऽक्षयस्तेषां यथैव मम कामधुक् ॥ 3-51-18(17854)
क्वनु ते क्षत्रियाः शूरा नहि पश्यामि तानहम्।
आगच्छतो महीपालान्दयितामनिथीन्मम ॥ 3-51-19(17855)
एवमुक्तस्तु शक्रेण नारदः प्रत्यभाषत।
शृणु मे मघवन्येन न दृश्यन्ते महीक्षितः ॥ 3-51-20(17856)
विदर्भराज्ञो दुहिता दमयन्तीति विश्रुता।
रूपेण समतिक्रान्ता पृथिव्यां सर्वयोषितः ॥ 3-51-21(17857)
तस्याः स्वयंवरः शक्र भविता नचिरादिव।
तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः ॥ 3-51-22(17858)
तां रत्नभूतां लोकस्य प्रार्थयन्तो महीक्षितः।
काङ्क्षन्ति स्म विशेषेण बलवृत्रनिषूदन ॥ 3-51-23(17859)
एतस्मिन्कथ्यमाने तु लोकपालाश्च साग्निकाः।
आजग्मुर्देवराजस्य समीपममरोत्तमाः ॥ 3-51-24(17860)
ततस्ते शुश्रुवुः सर्वे नारदस्य वचो महत्।
श्रुत्वैव चाब्रुवन्हृष्टा गच्छामो वयमप्युत ॥ 3-51-25(17861)
ततः सर्वे महाराज सगणाः सहवाहनाः।
विदर्भानभिजग्मुस्ते यतः सर्वे महीक्षितः ॥ 3-51-26(17862)
नलोपि राजा कौन्तेय श्रुत्वा राज्ञां समागमम्।
अभ्यगच्छददीनात्मा दमयन्तीमनुव्रतः ॥ 3-51-27(17863)
अथ देवाः पथि नलं ददृशुर्भूतले स्तितम्।
साक्षादिव स्थितं मूर्त्या मन्मथं रूपसंपदा ॥ 3-51-28(17864)
तं दृष्ट्वा लोकपालास्ते भ्राजमानं यथा रविम्।
तस्थुर्विगतसंकल्पा विस्मिता रूपसंपदा ॥ 3-51-29(17865)
ततोऽन्तरिक्षे विष्टभ्य विमानानि दिवौकसः।
अब्रुवन्नैषधं राजन्नवतीर्य नभस्तलात् ॥ 3-51-30(17866)
भोभो निषधराजेन्द्र नल सत्यव्रतो भवात्।
अस्माकं कुरु साहाय्यं दूतो भव नरोत्तम ॥ 3-51-31(17867)
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि एकपञ्चाशोऽध्यायः ॥ 51 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-51-5 जज्ञुः ज्ञातवत्यः। रइङ्गितैः अभिप्रायसृचकैश्चेष्टितैः ॥ 3-51-9 अनुभूयतां प्रेक्ष्यतां भवद्भिः ॥ 3-51-20 महीक्षितः पृष्वीश्वरा ॥ 3-51-29 विगतो विनष्टः दमयन्तीं प्राप्स्याम इतिसंकल्पो येषाम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|